वांछित मन्त्र चुनें

अ॒सौ य एषि॑ वीर॒को गृ॒हंगृ॑हं वि॒चाक॑शद् । इ॒मं जम्भ॑सुतं पिब धा॒नाव॑न्तं कर॒म्भिण॑मपू॒पव॑न्तमु॒क्थिन॑म् ॥

अंग्रेज़ी लिप्यंतरण

asau ya eṣi vīrako gṛhaṁ-gṛhaṁ vicākaśad | imaṁ jambhasutam piba dhānāvantaṁ karambhiṇam apūpavantam ukthinam ||

पद पाठ

अ॒सौ । यः । एषि॑ । वी॒र॒कः । गृ॒हम्ऽगृ॑हम् । वि॒ऽचाक॑शत् । इ॒मम् । जम्भ॑ऽसुतम् । पि॒ब॒ । धा॒नाऽव॑न्तम् । क॒र॒म्भिण॑म् । अ॒पू॒पऽव॑न्तम् । उ॒क्थिन॑म् ॥ ८.९१.२

ऋग्वेद » मण्डल:8» सूक्त:91» मन्त्र:2 | अष्टक:6» अध्याय:6» वर्ग:14» मन्त्र:2 | मण्डल:8» अनुवाक:9» मन्त्र:2